वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢ग्ने꣣ वि꣡व꣢स्वदु꣣ष꣡स꣢श्चि꣣त्र꣡ꣳ राधो꣢꣯ अमर्त्य । आ꣢ दा꣣शु꣡षे꣢ जातवेदो वहा꣣ त्व꣢म꣣द्या꣢ दे꣣वा꣡ꣳ उ꣢ष꣣र्बु꣡धः꣢ ॥४०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने विवस्वदुषसश्चित्रꣳ राधो अमर्त्य । आ दाशुषे जातवेदो वहा त्वमद्या देवाꣳ उषर्बुधः ॥४०॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢ । वि꣡व꣢꣯स्वत् । वि । व꣣स्वत् । उष꣡सः꣢ । चि꣣त्र꣢म् । रा꣡धः꣢꣯ । अ꣣मर्त्य । अ । मर्त्य । आ꣢ । दा꣣शु꣡षे꣢ । जा꣣तवेदः । जात । वेदः । वह । त्व꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दे꣣वा꣢न् । उ꣣षर्बु꣡धः꣢ । उ꣣षः । बु꣡धः꣢꣯ ॥४०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 40 | (कौथोम) 1 » 1 » 4 » 6 | (रानायाणीय) 1 » 4 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

परमेश्वर हमें क्या प्रदान करे, यह कहते हैं।

पदार्थान्वयभाषाः -

हे (अमर्त्य) स्वरूप से मरणधर्मरहित, (जातवेदः) सर्वज्ञ, सर्वव्यापक, ज्ञाननिधि, (अग्ने) प्रकाशस्वरूप परमात्मन् ! (त्वम्) आप (अद्य) आज (दाशुषे) धन-धान्य, विद्या आदि का दान करनेवाले मुझे (उषसः) उषा के (चित्रम्) अद्भुत, (विवस्वत्) अज्ञान, दरिद्रता आदि के अन्धकार को दूर करनेवाले (राधः) सत्यरूप अथवा ज्योति-रूप धन को और (उषर्बुधः) उषःकाल में स्वयं जागने तथा अन्यों को जगानेवाले (देवान्) उत्तम विद्वानों तथा दिव्यगुणों को (आ वह) प्राप्त कराओ ॥६॥

भावार्थभाषाः -

सब मनुष्य उषःकाल में प्रबुद्ध होनेवाले दिव्यगुणों को हृदय में धारण करते हुए उषा के समान तेज की किरणों से युक्त, प्राणवान्, यज्ञवान्, प्रबोधवान् और सत्यवान् होकर विद्वानों के संग से सदा जागरूक, सदाचारी और धर्मात्मा होवें ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

परमेश्वरोऽस्मभ्यं किं दद्यादित्याह।

पदार्थान्वयभाषाः -

हे (अमर्त्य) स्वरूपेण मरणधर्मरहित, (जातवेदः) सर्वज्ञ, सर्वव्यापक, ज्ञाननिधे (अग्ने) प्रकाशस्वरूप परमात्मन् ! (त्वम् अद्य) अस्मिन् दिने। संहितायां निपातस्य च। अ० ६।३।१३६ इति दीर्घः। (दाशुषे) धनधान्यविद्यादिदानकर्त्रे मह्यम्। दाशृ दाने, दाश्वान्साह्वान् मीढ्वांश्च।’ अ० ६।१।१२ इति क्वसुप्रत्ययान्तो निपातः। (उषसः) प्रभातदीप्तेः (चित्रम्) अद्भुतम् (विवस्वत्) अज्ञानदारिद्र्यादितमो- विवासनशीलम् (राधः२) ऋतरूपं ज्योतीरूपं वा धनम्। राध इति धननाम। निघं० २।१०। उषसो धनं च ऋतं ज्योतिर्वा, यथोक्तम् ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना। ऋ० १।१२३।१३, ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु। ऋ० १।१२४।३, ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती। ऋ० १।९२।४, ज्योति॑ष्कृणोति सू॒नरी॑। ऋ० ७।८१।१’ इति। किञ्च, (उषर्बुधः) ये उषसि स्वयं बुध्यन्ते, सुप्तान् बोधयन्ति च तान् (देवान्) उत्तमान् विदुषो दिव्य-गुणान् वा। संहितायां देवाँ उषर्बुधः इत्यत्र दीर्घादटि समानपादे।’ अ० ८।३।९ इति नकारस्य रुत्वम्, आतोऽटि नित्यम्।’ अ० ८।३।३ इत्यनुनासिकश्च। (आ वह) प्रापय। संहितायां (द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति (दीर्घः) ॥६॥३

भावार्थभाषाः -

सर्वे जना उषसि प्रबुध्यमानान् दिव्यगुणान् हृदि धारयन्तः, उषर्वद् रश्मिवन्तः प्राणवन्तो यज्ञवन्तः प्रबोधवन्तः सत्यवन्तश्च भूत्वा विदुषां सङ्गेन सदा जागरूकाः सदाचारिणो धर्मात्मानश्च भवेयुः ॥६॥

टिप्पणी: १. ऋ० १।४४।१, साम १७८०। २. उषसः उषःसम्बन्धि चित्रं चायनीयं दर्शनीयं राधः तेजः, राधयति प्रकाशयतीति—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिरस्य मन्त्रस्य भावार्थमेवमाह—“मनुष्यैरीश्वराज्ञापालनाय स्वपुरुषार्थेन परमेश्वरम् अनलसान् उत्तमान् विदुषश्चाश्रित्य चक्रवर्तिराज्यविद्याश्रीः प्राप्तव्या” इत्यादि।